|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.151. अध्यायः 151
Mahabharata - Udyoga Parva - Chapter Topics
युधिष्ठिरेण भ्रातॄन्प्रति कस्यचित्सेनापतित्वकल्पने स्वस्वाभिप्रायनिवेदनचोदना ॥ 1 ॥ तैः स्वस्वाभिप्रायनिवेदनानन्तरं युधिष्ठिरेण श्रीकृष्णंप्रति तदभिप्रायनिवेदनप्रार्थना ॥ 2 ॥ श्रीकृष्णेन धृष्टद्युम्नस्य सेनापतित्वेन वरणस्य स्वाभिमतत्वकथने राज्ञां हर्षात्समुद्धोपः ॥ 3 ॥ युधिष्ठिरादीनां सर्वेषां कुरुक्षेत्रप्रवेशः ॥ 4 ॥

Mahabharata - Udyoga Parva - Chapter Text
5-151-0(36949)
वैशम्पायन उवाच। 5-151-0x(3829)
जनार्दनवचः श्रुत्वा धर्मराजो युधिष्ठिरः।
भ्रातॄनुवाच धर्मात्मा समक्षं केशवस्य ह॥ 5-151-1(36950)
श्रुतं भवद्भिर्यद्वृत्तं सभायां कुरुसंसदि ।
केशवस्यापि यद्वाक्यं तत्सर्वमवधारितम् ॥ 5-151-2(36951)
तस्मात्सेनाविभागं मे कुरुध्वं नरसत्तमाः ।
अक्षौहिण्यश्च सप्तैताः समेता विजयाय वै ॥ 5-151-3(36952)
तासां ये पतयः सप्त विख्यातास्तान्निबोधत।
द्रुपदश्च विराटश्च धृष्टद्युम्नशिखण्डिनौ ॥ 5-151-4(36953)
सात्यकिश्चेकितानश्च भीमसेनश्च वीर्यवान् ।
एते सेनाप्रणेतारो वीराः सर्वे तनुत्यजः ॥ 5-151-5(36954)
सर्वे वेदविदः शूराः सर्वे सुचिरितव्रताः ।
ह्रीमन्तो नीतिमन्तश्च सर्वे युद्धविशारदाः ॥ 5-151-6(36955)
इष्वस्त्रकुशलाः सर्वे तथा सर्वास्त्रयोधिनः ।
सप्तानामपि यो नेता सेनानां प्रविभागवित् ॥ 5-151-7(36956)
यः सहेत रणे भीष्णं शरार्चिःपावकोपमम् ।
तं तावत्सहदेवात्र प्रब्रूहि कुरुनन्दन।
स्वगतं पुरुषव्याघ्र को नः सेनापतिः क्षमः ॥ 5-151-8(36957)
सहदेव उवाच। 5-151-9x(3830)
संयुक्त एकदुःखश्च वीर्यवांश्च महीपतिः।
यं समाश्रित्य धर्मज्ञं स्वमंशमनुयुञ्ज्महे ॥ 5-151-9(36958)
मत्स्यो विराटो बलवान्कृतास्त्रो युद्धदुर्मदः ।
प्रसहिष्यति सङ्ग्रामे भीष्मं तांश्च महारथान् ॥ 5-151-10(36959)
वैशम्पायन उवाच। 5-151-11x(3831)
तथोक्ते सहदेवेन वाक्ये वाक्यविशारदः ।
नकुलोऽनन्तरं तस्मादिदं वचनमाददे ॥ 5-151-11(36960)
वयसा शास्त्रतो धैर्यात्कुलेनाभिजनेन च ।
ह्रीमान्बलान्वितः श्रीमान्सर्वशास्त्रविशारदः ॥ 5-151-12(36961)
वेद चास्त्रं भारद्वाजाहुर्धर्षः सत्यसङ्गरः ।
यो नित्यं स्पर्धते द्रोणं भीष्मं चैव महाबलम् ॥ 5-151-13(36962)
श्लाघ्यः पार्थिववंशस्य प्रमुखे वाहिनीपतिः।
पुत्रपौत्रेः परिवृतः शतशाख इव द्रुमः॥ 5-151-14(36963)
यस्तताप तपो घोरं सदारः पृथिवीपतिः ।
रोषाद्द्रोणविनाशाय वीरः समितिशोभनः ॥ 5-151-15(36964)
पितेवास्मान्समाधत्ते यः सदा पार्थिवर्षभः ।
श्वशुरो द्रुपदोऽस्माकं सेनाग्रं स प्रकर्षतु ॥ 5-151-16(36965)
स द्रोणभीष्मावायातौ सहेदिति मतिर्मम ।
स हि दिव्यास्त्रविद्राजा सखा चाङ्गिरसो नृपः ॥ 5-151-17(36966)
माद्रीसुताभ्यामुक्ते तु स्वमते कुरुनन्दनः।
वासविर्वासवसमः सव्यसाच्यब्रवीद्वचः ॥ 5-151-18(36967)
योयं तपःप्रभावेन ऋषिसन्तोषणेन च ।
दिव्यः पुरुष उत्पन्नो ज्वालावर्णो महाभुजः ॥ 5-151-19(36968)
धनुष्मान्कवची खङ्गी रथमारुह्य दंशितः ।
दिव्यैर्हयवरैर्युक्तमग्निकुण्डात्समुत्थितः ॥ 5-151-20(36969)
गर्जन्निव महामेघो रथघोषेण वीर्यवान् ।
सिंहसंहननो वीरः सिंहतुल्यपराक्रमः ॥ 5-151-21(36970)
सिंहोरस्कः सिंहभुजः सिंहवक्षा महाबलः ।
सिंहप्रगर्जनो वीरः संहस्कन्धो महाद्युतिः ॥ 5-151-22(36971)
शुभ्रूः सुदंष्ट्रः सुहनुः सुबाहुः सुमुखोऽकृशः ।
सुजत्रुः सुविशालाक्षः सुपादः सुप्रतिष्ठितः ॥ 5-151-23(36972)
अभेद्यः सर्वशस्त्राणां प्रभिन्न इव वारणः ।
जज्ञे द्रोणविनाशाय सत्यवादी जितेन्द्रियः ॥ 5-151-24(36973)
धृष्टद्युम्नमहं मन्ये सहेद्भीष्मस्य सायकान्।
वज्राशनिसमस्पर्शान्दीप्तास्यानुरगानिव ॥ 5-151-25(36974)
यमदूतसमान्वेगे निपाते पावकोपमान् ।
रामेणाजौ विषिहितान्वज्रनिष्पेषदारुणान् ॥ 5-151-26(36975)
पुरुष तं न पश्यामि यः सहेत महाव्रतम्।
धृष्टद्युम्नमृते राजन्निति मे धीयते मतिः ॥ 5-151-27(36976)
क्षिप्रहस्तश्चित्रयोधी मतः सेनापतिर्मम ।
अभेद्यकवचः श्रीमान्मातङ्ग इव यूथपः ॥ 5-151-29a`अर्जुनेनैवमुक्ते तु भीमो वाक्यं समाददे।'
वधार्थं यः समुत्पन्नः शिखण्डी द्रुपदात्मजः ।
वदन्ति सिद्धा राजेन्द्र ऋषयश्च समागताः ॥ 5-151-28(36977)
यस्य सङ्ग्राममध्ये तु दिव्यमस्त्रं प्रकुर्वतः ।
रूपं द्रक्ष्यन्ति पुरुषा रामस्येव महात्मनः ॥ 5-151-30(36978)
न तं युद्धे प्रपश्यामि यो भिन्द्यात्तु शिखण्डिनाम् ।
शस्त्रेण समरे राजन्सन्नद्वं स्यन्दने स्थितम् ॥ 5-151-31(36979)
द्वैरथे समरे नान्यो भीष्मं हन्यान्महाव्रतम् ।
शिखण्डिनमृते वीरं स मे सेनापतिर्मतः ॥ 5-151-32(36980)
युधिष्ठिर उवाच। 5-151-33x(3832)
सर्वस्य जगतस्तात सारासारं बालाबलम् ।
सर्वं जानाति धर्मात्मा मतमेषां च केशवः ॥ 5-151-33(36981)
यमाह कृष्णो दाशार्हः सोऽस्तु सेनापतिर्मम ।
कृतास्त्रोप्यकृतास्त्रो वा वृद्धो वा यदि वा युवा ॥ 5-151-34(36982)
एष नो विजये मूलमेष तात विपर्यये।
अत्र प्राणाश्च राज्यं च भावाभावौ सुखासुखे ॥ 5-151-35(36983)
एष धाता विधाता च सिद्धिरत्र प्रतिष्ठिता।
यमाह कृष्णो दाशार्हः सोस्तु नो वाहिनीपतिः ॥ 5-151-36(36984)
ब्रवीतु वदतां श्रेष्ठो निशा समभिवर्तते।
ततः सेनापतिं कृत्वा कृष्णस्य वशवर्तिनः ॥ 5-151-37(36985)
रात्रेः शेषे व्यतिक्रान्ते प्रयास्यामो रणाजिरम् ।
अधिवासितशस्त्राश्च कृतकौतुकमङ्गलाः ॥ 5-151-38(36986)
वैशम्पायन उवाच। 5-151-39x(3833)
तस्य तद्वचनं श्रुत्वा धर्मराजस्य धीमतः।
अब्रवीत्पुण्डरीकाक्षो धनञ्जयमवेक्ष्य ह ॥ 5-151-39(36987)
ममाप्येते महाराज भवद्भिर्य उदाहृताः।
नेतारस्तव सेनाया मता विक्रान्तयोधिनः ॥ 5-151-40(36988)
सर्व एव समर्था हि तव शत्रुं प्रबाधितुम्।
इन्द्रस्यापि भयं ह्येते जनयेयुर्महाहवे ॥ 5-151-41(36989)
किं पुनर्धार्तराष्ट्राणां लुब्धानां पापचेतसाम्।
मयापि हि महाबाहो त्वत्प्रियार्थं महाहवे ॥ 5-151-42(36990)
कृतो यत्नो महांस्तत्र शमः स्यादिति भारत ।
धर्मस्य गतमानृण्यं न स्म वाच्या विवक्षताम् ॥ 5-151-43(36991)
कृतार्थं मन्यते बाल आत्मनमविचक्षणः ।
धार्तराष्ट्रो बलस्थं च पश्यत्यात्मानमातुरः ॥ 5-151-44(36992)
युज्यतां वाहिनी साधु वधसाध्या हि मे मताः ।
न धार्तराष्ट्राः शक्ष्यन्ति स्थातुं दृष्ट्वा धनञ्जयम् ॥ 5-151-45(36993)
भीमसेनं च सङ्क्रुद्धं यमौ चापि यमोपमौ ।
युयुधानं द्वितीयं च धृष्टद्युम्नममर्षणम् ॥ 5-151-46(36994)
अभिमन्युं द्रौपदेयान्विराटद्रुपदावपि।
अक्षौहिणीपतींश्चान्यान्नरेन्द्रान्भीमविक्रमान् ॥ 5-151-47(36995)
सारवद्बलमस्माकं दुष्प्रधर्षं दुरासदम्।
धार्तराष्ट्रबलं सङ्ख्ये हनिष्यति न संशयः ॥ 5-151-48(36996)
धृष्टद्युम्नमहं मन्ये सेनापतिमरिन्दम। 5-151-49(36997)
वैशम्पायन उवाच।
एवमुक्ते तु कृष्णेन संप्राहृष्यन्नरोत्तमाः ॥ 5-151-49x(3834)
तेषां प्रहृष्टमनसां नादः समभवन्महान्।
योग इत्यथ सैन्यानां त्वरतां संप्रधावताम् ॥ 5-151-50(36998)
हयवारणशब्दाश्च नेमिघोषाश्च सर्वतः।
शङ्खदुन्दुभिघोषाश्च तुमुलाः सर्वतोऽभवन् ॥ 5-151-51(36999)
तद्रुग्रं सागरनिभं क्षुब्धं बलसमागमम्।
रथपत्तिगजोदयं महोर्मिभिरिवाकुलम् ॥ 5-151-52(37000)
धावतामाहुयानानां तनुत्राणि च बध्नताम् ।
प्रयास्यतां पाण्डवानां ससैन्यानां समन्ततः ॥ 5-151-53(37001)
गङ्गेव पूर्णा दुर्धर्षा समदृश्यत वाहिनी ।
अग्रानीके भीमसेनो माद्रीपुत्रौ च दंशितौ ॥ 5-151-54(37002)
सौभद्रो द्रौपदेयाश्च धृष्टद्युम्नस्य पार्षतः ।
प्रभद्रकाश्च पञ्चाला भीमसेनमुखा ययुः ॥ 5-151-55(37003)
ततः शब्दः समभवत्सुमुद्रस्येव पर्वणि ।
हृष्टानां संप्रयातानां घोषो दिवमिवास्पृशम् ॥ 5-151-56(37004)
प्रहृष्टा दंशिता योधाः परानीकविदारणाः।
तेषां मध्ये ययौ राजा कुन्तीपुत्रो युधिष्ठिरः ॥ 5-151-57(37005)
शकटापणवेशाश्च यानयुग्यं च सर्वशः ।
कोशं यन्त्रायुधं चैव ये च वैद्याश्चिकित्सकाः ॥ 5-151-58(37006)
फल्गु यच्चं बलं किंचिद्यच्चापि कृशदुर्बलम्।
तत्सङ्गृह्य ययौ राजा ये चापि परिचारकाः ॥ 5-151-59(37007)
उपप्लाव्ये तु पाञ्चाली द्रौपदी सत्यवादिनी ।
सह स्त्रीभिर्निनवृते दासीदाससमावृता ॥ 5-151-60(37008)
कृत्वा मूलप्रतीकारं गुल्मैः स्थावरजङ्गमैः ।
स्कन्धावारेण महता प्रययुः पाण्डुनन्दनाः ॥ 5-151-61(37009)
ददतो गां हिरण्यं च ब्राह्मणैरभिसंवृताः।
स्तूयमाना ययू राजन्रथैर्मणिविभूषितैः॥ 5-151-62(37010)
केकया धृष्टकेतुश्च पुत्रः काश्यस्य चाभिभूः ।
श्रेणिमान्वसुदानश्च शिखण्डी चापराजितः ॥ 5-151-63(37011)
हृष्टास्तुष्टाः कवचिनः सशस्त्राः समलङ्कृताः।
राजानमन्वयुः सर्वे परिवार्य युधिष्ठिरम् ॥ 5-151-64(37012)
जघनार्धे विराटश्च याज्ञसेनिश्च सौमकिः ।
सुधर्मा कुन्तिभोजश्च धृष्टद्युम्नस्य चात्मजाः ॥ 5-151-65(37013)
रथायुतानि चत्वारि हयाः पञ्चगुणास्तथा ।
पत्तिसैन्यं दशगुणं गजानामयुतानि षट् ॥ 5-151-66(37014)
अनाधृष्टिश्चेकितानो धृष्टकेतुश्च सात्यकिः ।
परिवार्य ययुः सर्वे वासुदेवधनञ्जयौ ॥ 5-151-67(37015)
आसाद्य तु कुरुक्षेत्रं व्यूढानीकाः प्रहारिणः ।
पाण्डवाः समदृश्यन्त नर्दन्तो वृषभा इव ॥ 5-151-68(37016)
तेऽवगाह्य कुरुक्षेत्रं शङ्खान्दध्मुररिन्दमाः।
तथैव दध्मतुः शङ्खं वासुदेवधनञ्जयौ ॥ 5-151-69(37017)
पाञ्चजन्यस्य निर्घोषं विस्फूर्जितमिवाशनेः ।
निशम्य सर्वसैन्यानि समहष्यन्त सर्वशः ॥ 5-151-70(37018)
शङ्खदुन्दुभिसंहृष्टः सिंहनादस्तरस्विनाम् ।
पृथिवीं चान्तरिक्षं च सागरांश्चान्वनादयत् ॥ ॥ 5-151-71(37019)
इति श्रीमन्महाभारते उद्योगपर्वणि सैन्यनिर्याणपर्वणि एकपञ्चाशदधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-151-9 संयुक्तः संबन्धी॥ 5-151-12 कुलेन वंशेन । अभिजनेन स्वजनसमूहेन ॥ 5-151-17 अङ्गिरसो द्रोणस्य ॥ 5-151-38 शस्त्राणामधिवासनं गन्धाद्यैः पूजनम् ॥ 5-151-48 अस्माकं बलं कर्तृ ॥ 5-151-50 योगो युद्धाय सज्जीभवनम् ॥ 5-151-58 शकटा अनांसि। आपणो वणिग्वीथ्युपलक्षितं विक्रेयद्रव्यम् ॥ 5-151-61 मूलप्रतीकारं धनदाररक्षाम् । गुल्मैः स्थावरैः प्रकाररूपैः। जंगमैः परितः स्थानेस्थाने शूरसंघैः। स्कन्धावारेण सैन्येन ॥ 5-151-65 जघनार्धे पश्चिमार्धे ॥ 5-151-70 समहृष्यन्त रोमाञ्चितानि ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|